आदित्य हृदयस्तोत्रम्
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् l
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ll
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्l l
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ll
राम राम महाबाहो शृणु गुह्यं सनातनम् l
येन सर्वानरीन्वत्स समरे विजयिष्यसि ll
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् l
जयावहं जपेन्नित्यं अक्ष्य्यं परमं शिवम् ll
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् l
चिंताशोकप्रशमनं आयुर्वर्धनमुत्तमम् ll
रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम् l
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ll
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः l
एष देवासुरगणाँल्लोकां पाति गभस्तिभिः ll
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः l
महेन्द्रो धनदः कालो यमः सोमोह्यपां पतिः ll
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः l
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ll
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् l
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ll
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् l
तिमिरोन्मथनः शंभुस्त्वष्टा मार्ताण्ड अंशुमान् ll
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः l
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ll
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः l
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ll
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः l
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ll
नक्ष्त्रग्रहताराणामधिपो विश्वभावनः l
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ll
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः l
ज्योतिर्गणानां पतये दिनाधिपतये नमः ll
जयाय जयभद्राय हर्यश्वाय नमो नमः l
नमो नमः सहस्रांशो आदित्याय नमो नमः ll
नमः उग्राय वीराय सारङ्गाय नमो नमः l
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ll
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे l
भास्वते सर्वभक्षय रौद्राय वपुषे नमः ll
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने l
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ll
तप्तचामीकराभाय वह्नये विश्वकर्मणे l
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ll
नाशयत्येष वै भूतं तदेव सृजति प्रभुः l
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ll
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः l
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ll
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च l
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ll
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च l
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ll
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् l
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ll
अस्मिन्क्शणे महाबाहो रावणं त्वं वधिष्यसि l
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ll
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा l
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ll
आदित्यं प्रेक्श्य जप्त्वा तु परं हर्षमवाप्तवां l
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ll
रावणं प्रेक्श्य हृष्टात्मा युद्धाय समुपागमत् l
सर्व यत्नेन महता वधे तस्य धृतोऽभवत् ll
अथ रविरवदन्निरीक्श्य रामं l
मुदितमनाः परमं प्रहृष्यमाणः ll
निशिचरपतिसंक्शयं विदित्वा l
सुरगणमध्यगतो वचस्त्वरेति l